|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.134. अध्यायः 134
Mahabharata - Adi Parva - Chapter Topics
पाण्डवानामायुष्यकथनम्॥ 1 ॥
माद्र्या मैथुनप्रवृत्तस्य पाण्डोर्मरणम्॥ 2 ॥
पाण्डवप्रलापः॥ 3 ॥ माद्र्याः सहगमनम्॥ 4 ॥
मृतस्य पाण्डोर्दहनादिसंस्कारः॥ 5 ॥
Mahabharata - Adi Parva - Chapter Text
`जनमेजय उवाच। 1-134-0x(789)(5933)
कस्मिन्वयसि संप्राप्ताः पाण्डवा गजसाह्वयम्।
समपद्यन्त देवेभ्यस्तेषामायुश्च किं परम्॥ 1-134-1(5934)
वैशम्पायन उवाच। 1-134-2x(790)
पाण्डवानामिहायुष्यं शृणु कौरवनन्दन।
जगाम हास्तिनपुरं षोडशाब्दो युधिष्ठिरः॥ 1-134-2(5935)
भीमसेनः पञ्चदशो बीभत्सुर्वै चतुर्दशः।
त्रयोदशाब्दौ च यमौ जग्मतुर्नागसाह्वयम्॥ 1-134-3(5936)
तत्र त्रयोदशाब्दानि धार्तराष्ट्रैः सहोषिताः।
षण्मासाञ्जातुषगृहान्मुक्ता जातो घटोत्कचः॥ 1-134-4(5937)
षण्मासानेकचक्रायां वर्षं पाञ्चालके गृहे।
धार्तराष्ट्रैः सहोषित्वा पञ्च वर्षाणि भारत॥ 1-134-5(5938)
इन्द्रप्रस्थे वसन्तस्ते त्रीणि वर्षाणि विंशतिम्।
द्वादशाब्दानथैकं च बभूवुर्द्यूतनिर्जिताः॥ 1-134-6(5939)
भुक्त्वा षट्त्रिंशतं राजन्सागरान्तां वसुन्धराम्।
मासैः षड्भिर्महात्मानः सर्वे कृष्णपरायणाः॥ 1-134-7(5940)
राज्ये परीक्षितं स्थाप्य दिष्टां गतिमवाप्नुवन्।
एवं युधिष्ठिरस्यासीदायुरष्टोत्तरं शतम्॥ 1-134-8(5941)
अर्जुनात्केशवो ज्येष्ठस्त्रिभिर्मासैर्महाद्युतिः।
कृष्णात्संकर्षणो ज्येष्ठस्त्रिभिर्मासैर्महाबलः॥ 1-134-9(5942)
पाण्डुः पञ्चमहातेजास्तान्पश्यन्पर्वते सुतान्।
रेमे स काश्यपयुतः पत्नीभ्यां सुभृशं तदा॥ 1-134-10(5943)
सुपुष्पितवने काले प्रवृत्ते मधुमाधवे।
पूर्णे चतुर्दशे वर्षे फल्गुनस्य च धीमतः॥ 1-134-11(5944)
यस्मिन्नृक्षे समुत्पन्नः पार्थस्तस्य च धीमतः।
तस्मिन्नुत्तरफल्गुन्यां प्रवृत्ते स्वस्तिवाचने॥ 1-134-12(5945)
रक्षणे विस्मृता कुन्ती व्यग्रा ब्राह्मणभोजने।
पुरोहितेन सहितान्ब्राह्मणान्पर्यवेषयत्॥' 1-134-13(5946)
वैशम्पायन उवाच। 1-134-14x(791)
दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने।
तान्पश्यन्पर्वते रम्ये स्वबाहुबलमाश्रितः॥ 1-134-14(5947)
सुपुष्पितवने काले कदाचिन्मधुमाधवे।
भूतसंमोहने राजा सभार्यो व्यचरद्वनम्॥ 1-134-15(5948)
पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः।
अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः॥ 1-134-16(5949)
जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम्।
पाण्डोर्वनं तत्संप्रेक्ष्य प्रजज्ञे हृदि मन्मथः॥ 1-134-17(5950)
प्रहृष्टमनसं तत्र विचरन्तं यथाऽमरम्।
तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम्॥ 1-134-18(5951)
समीक्षमाणः स तु तां वयःस्थां तनुवाससम्।
तस्य कामः प्रवृते गहनेऽग्निरिवोद्गतः॥ 1-134-19(5952)
रहस्येकां तु तां दृष्ट्वा राजा राजीवलोचनाम्।
न शशाक नियन्तुं तं कामं कामवशीकृतः॥ 1-134-20(5953)
`अथ सोऽष्टादशे वर्षे ऋतौ माद्रमलङ्कृताम्।
आजुहाव ततः पाण्डुः परीतात्मा यशस्विनीम्॥' 1-134-21(5954)
तत एनां बलाद्राजा निजग्राह रहोगताम्।
वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम्॥ 1-134-22(5955)
स तु कामपरीतात्मा तं शापं नान्वबुध्यत।
माद्रीं मैथुनधर्मेण सोऽन्वगच्छद्बलादिव॥ 1-134-23(5956)
जीवितान्ताय कौरव्य मन्मथस्य वशं गतः।
शापजं भयमुत्सृज्य विधिना संप्रचोदितः॥ 1-134-24(5957)
तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता।
संप्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा॥ 1-134-25(5958)
स तया सह संगम्य भार्यया कुरुनन्दनः।
पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा॥ 1-134-26(5959)
ततो माद्री समालिङ्ग्य राजानं गतचेतसम्।
मुमोच दुःखजं शब्दं पुनः पुनरतीव हि॥ 1-134-27(5960)
सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ।
आजग्मुः सहितास्तत्र यत्र राजा तथागतः॥ 1-134-28(5961)
ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः।
एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः॥ 1-134-29(5962)
तच्छ्रुत्वा वचनं तस्यास्तत्रैवाधाय दरकान्।
हता।हमिति विक्रुश्च सहसैवाजगाम सा॥ 1-134-30(5963)
दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले।
कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता॥ 1-134-31(5964)
रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान्।
कथं त्वामत्यतिक्रान्तः शापं जानन्वनौकसः॥ 1-134-32(5965)
ननु नाम त्वया माद्रि रक्षितव्यो नराधिपः।
सा कथं लोभितवती विजने त्वं नराधिपम्॥ 1-134-33(5966)
कथं दीनस्य सततं त्वामासाद्य रहोगताम्।
तं विचिन्तयतः शापं प्रहर्षः समजायत॥ 1-134-34(5967)
धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा।
दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः॥ 1-134-35(5968)
माद्र्युवाच। 1-134-36x(792)
विलपन्त्या मया देवि वार्यमाणेन चासकृत्।
आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा॥ 1-134-36(5969)
`वैशंपायान उवाच। 1-134-37x(793)
तस्यास्तद्वचनं श्रुत्वा कुन्ती शोकाग्निदीपिता।
पपात सहसा भूमौ छिन्नमूल इव द्रुमः॥ 1-134-37(5970)
निश्चेष्टा पतिता भूमौ मोहेन न चचाल सा।
तस्मिन्क्षणे कृतस्नानमहताम्बरसंवृतम्॥ 1-134-38(5971)
अलङ्कारकृतं पाण्डुं शयानं शयने शुभे।
कुन्तीमुत्थाप्य माद्री तु मोहेनाविष्टचेतनाम्॥ 1-134-39(5972)
आर्ये एहीति तां कुन्तीं दर्शयामास कौरव।
पादयोः पतिता कुन्ती पुनरुत्थाय भूमिपम्॥ 1-134-40(5973)
रक्तचन्दनदिग्धांङ्गं महारजनवाससम्।
सस्मितेन च वक्त्रेण वदन्तमिव भारतम्॥ 1-134-41(5974)
परिरभ्य ततो मोहाद्विललापाकुलेन्द्रिया।
माद्री चापि समालिङ्ग्य राजानं विललाप सा॥ 1-134-42(5975)
तं तथा शायिनं पुत्रा ऋषयः सह चारणैः।
अभ्येत्य सहिताः सर्वे शोकादश्रूण्यवर्तयन्॥ 1-134-43(5976)
अस्तं गतमिवादित्यं संशुष्कमिव सागरम्।
दृष्ट्वा पाण्डुं नरव्याघ्रं शोचन्ति स्म महर्षयः॥ 1-134-44(5977)
समानशोका ऋषयः पाण्डवाश्च बभूविरे।
ते समाश्वासिते विप्रैर्विलेपतुरनिन्दिते॥ 1-134-45(5978)
कुन्त्युवाच। 1-134-46x(794)
हा राजन्कस्य नो हित्वा गच्छसि त्रिदशालयम्।
हा राजन्मम मन्दायाः कथं माद्रीं समेत्य वै॥ 1-134-46(5979)
निधनं प्राप्तवान्राजन्मद्भाग्यपरिसंक्षयात्।
युधिष्ठिरं भीमसेनमर्जुनं च यमावुभौ॥ 1-134-47(5980)
कस्य हित्वा प्रियान्पुत्रान्प्रयातोऽसि विशांपते।
नूनं त्वां त्रिदशा देवाः प्रतिनन्दन्ति भारत॥ 1-134-48(5981)
यतो हि तप उग्रं वै चरितं ब्रह्मसंसदि।
आवाभ्यां सहितो राजन्गमिष्यसि दिवं शुभम्॥ 1-134-49(5982)
आजमीढाजमीढानां कर्मणा चरतां गतिम्।
ननु नाम सहावाभ्यां गमिष्यामीति यत्त्वया॥ 1-134-50(5983)
प्रतिज्ञाता कुरुश्रेष्ठ यदाऽस्मि वनमागता।
आवाभ्यां चैव सहितो गमिष्यसि विशांपते।
मुहूर्तं क्षम्यतां राजन्द्रक्ष्येऽहं च मुखं तव॥ 1-134-51(5984)
वैशम्पायन उवाच। 1-134-52x(795)
विलपित्वा भृशं चैव निःसंज्ञे पतिते भुवि।
यथा हते मृगे मृग्यौ लुब्धैर्वनगते तथा॥ 1-134-52(5985)
युधिष्ठिरमुखाः सर्वे पाण्डवा वेदपरागाः।
तेऽभ्यागत्य पितुर्मूले निःसंज्ञाः पतिता भुवि॥ 1-134-53(5986)
पाण्डोः पादौ परिष्वज्य विलपन्ति स्म पाण्डवाः।
हा विनष्टाः स्म तातेति हा अनाथा भवामहे॥ 1-134-54(5987)
त्वद्विहीना महाप्राज्ञ कथं जीवाम बालकाः।
लोकनाथस्य पुत्राः स्मो न सनाथा भवामहे॥ 1-134-55(5988)
क्षणेनैव महाराज अहो लोकस्य चित्रता।
नास्मद्विधा राजपुत्रा अधन्याः सन्ति भारत॥ 1-134-56(5989)
त्वद्विनाशाच्च राजेन्द्र राज्यप्रस्खलनात्तदा।
पाण्डवाश्च वयं सर्वे प्राप्ताः स्म व्यसनं महत्॥ 1-134-57(5990)
किं करिष्यामहे राजन्कर्तव्यं च प्रसीदताम्। 1-134-58(5991)
भीमसेन उवाच।
हित्वा राज्यं च भोगांश्च शतशृङ्गनिवासिना॥ 1-134-58x(796)
त्वया लब्धाः स्म राजेन्द्र महता तपसा वयम्।
हित्वा मानं वनं गत्वा स्वयमाहृत्य भक्षणम्॥ 1-134-59(5992)
शाकमूलफलैर्वन्यैर्भरणं वै त्वया कृतम्।
पुत्रानुत्पाद्य पितरो यमिच्छ्ति महातम्नः॥ 1-134-60(5993)
त्रिवर्गफलमिच्छन्तस्तस्य कालोऽयमागतः।
अभुक्त्वैव फलं राजन्गन्तुं नार्हसि भारत॥ 1-134-61(5994)
इत्येवमुक्त्वा पितरं भीमोऽपि विललाप॥ 1-134-62(5995)
अर्जुन उवाच। 1-134-63x(797)
प्रनष्टं भारतं वंशं पाण्डुना पुनरुद्धृतम्।
तस्मिंस्तदा वनगते नष्टं राज्यमराजकम्॥ 1-134-63(5996)
पुनर्निःसारितं क्षत्रं पाण्डुपुत्रैश्च पञ्चभिः।
एतच्छ्रुत्वाऽनुमोदित्वा गन्तुमर्हसि शङ्कर॥ 1-134-64(5997)
इत्येवमुक्त्वा पितरं विललाप धनञ्जयः। 1-134-65(5998)
यमावूचतुः।
दुःसहं च तपः कृत्वा लब्ध्वा नो भरतर्षभ॥ 1-134-65x(798)
पुत्रलाभस्य महतः शुश्रूषादिफलं त्वया।
न चावाप्तं किंचिदेव पुरा दशरथो यथा॥ 1-134-66(5999)
एवमुक्त्वा यमौ चापि विलेपतुरथातुरौ॥' 1-134-67(6000)
कुन्त्युवाच। 1-134-68x(799)
अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम।
अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय॥ 1-134-68(6001)
अन्विष्यामीह भर्तारमहं प्रेतवशं गतम्।
उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान्॥ 1-134-69(6002)
`अवाप्य पुत्रांल्लब्धार्थान्वीरपत्नीत्वमर्थये। 1-134-70(6003)
वैशम्पायन उवाच।
मद्रराजसुता कुन्तीमिदं वचनमब्रवीत्॥' 1-134-70x(800)
अहमेवानुयास्यामि भर्तारमपलापिनम्।
न हि तृप्ताऽस्मि कामानां ज्येष्ठा मामनुमन्यताम्॥ 1-134-71(6004)
मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः।
समुच्छिद्यामि तत्कामं कथं नु यमसादने॥ 1-134-72(6005)
`मम हतोर्हि राजाऽयं दिवं राजर्पिसत्तमः।
न चैव तादृशी बुद्धिर्बान्धवाश्च न तादृशाः॥ 1-134-73(6006)
न चोत्सहे धारयितुं प्राणान्भर्त्रा विना कृता।
तस्मात्तमनुयास्यामि यान्तं वैवस्वतक्षयम्॥ 1-134-74(6007)
वर्तेयं न समां वृत्तिं जात्वहं न सुतेषु ते।
तथाहि वर्तमानां मामधर्मः संस्पृशेन्महान्॥ 1-134-75(6008)
तस्मान्मे सुतयोर्देवि वर्तितव्यं स्वपुत्रवत्।
अन्वेष्यामि च भर्तारं व्रजन्तं यमसादनम्॥' 1-134-76(6009)
मां हि कामयमानोऽयं राजा प्रेतवशं गतः।
राज्ञः शरीरेण सह मामपीदं कलेवरम्॥ 1-134-77(6010)
दग्धव्यं सुप्रतिच्छन्नं त्वेतदार्ये प्रियं कुरु।
दारकेष्वप्रमत्ता त्वं भवेश्चाभिहिता मया।
अतोऽहं न प्रपश्यामि संदेष्टव्यं हितं तव॥ 1-134-78(6011)
`वैशम्पायन उवाच। 1-134-79x(801)
ऋषयस्तान्समाश्वास्य पाण्डवान्सत्यविक्रमान्।
ऊचुः कुन्तीं च माद्रीं च समाश्वास्य तपस्विनः॥ 1-134-79(6012)
सुभगे बालपुत्रा तु न मर्तव्यं तथंचन।
पाण्डवांश्चापि नेष्यामः कुरुराष्ट्रं परन्तपान्॥ 1-134-80(6013)
अधर्मेष्वर्थजातेषु धृतराष्ट्रश्च लोभवान्।
स कदाचिन्न वर्तेत पाण्डवेषु यथाविधि॥ 1-134-81(6014)
कुन्त्याश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च।
माद्र्याश्च बलिनांश्रेष्ठः शल्यो भ्राता महारथः॥ 1-134-82(6015)
भर्त्रा तु मरणं सार्धं फलवन्नात्र संशयः।
युवाभ्यां दुष्करं चैतद्वदन्ति द्विजपुङ्गवाः॥ 1-134-83(6016)
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्यव्रते स्थिता।
यमैश्च नियमैः पूता मनोवाक्कायजैः शुभा॥ 1-134-84(6017)
भर्तारं चिन्तयन्ती सा भर्तारं निस्तरेच्छुभा।
तारितश्चापि भर्ता स्यादात्मा पुत्रस्तथैव च॥ 1-134-85(6018)
तस्माञ्जीवितमेवैतद्युवयोर्विद्म शोभनम्॥ 1-134-86(6019)
कुन्त्युवाच। 1-134-87x(802)
यथा पाण्डोस्तु निर्देशस्तथा विप्रगणस्य च।
आज्ञा शिरसि निक्षिप्ता करिष्यामि च तत्तथा॥ 1-134-87(6020)
यदाद्दुर्भगवन्तोऽपि तन्मन्ये शोभनं परम्।
भर्तुश्च मम पुत्राणामात्मनश्च न संशयः॥ 1-134-88(6021)
माद्र्युवाच। 1-134-89x(803)
कुन्ती समर्था पुत्राणां योगक्षेमस्य धारणे।
अस्या हि न समा बुद्ध्या यद्यपि स्यादरुन्धती॥ 1-134-89(6022)
कुन्त्याश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च।
नाहं त्वमिव पुत्राणां समर्था धारणे तथा॥ 1-134-90(6023)
साऽहं भर्तारमन्विष्ये संतृप्ता नापि भोगतः।
भर्तृलोकस्य तु ज्येष्ठा देवी मामनुमन्यताम्॥ 1-134-91(6024)
धर्मज्ञस्य कृतज्ञस्य सत्यसन्धस्य धीमतः।
पादौ परिचरिष्यामि तथार्याऽद्यानुमन्यताम्॥ 1-134-92(6025)
वैशम्पायन उवाच। 1-134-93x(804)
एवमुक्त्वा तदा राजन्मद्रराजसुता शुभा।
ददौ कुन्त्यै यमौ माद्री शिरसाऽभिप्रणम्य च॥ 1-134-93(6026)
अभिवाद्य महर्षीन्सा परिष्वज्य च पाण्डवान्।
मूर्ध्न्युपाघ्राय बहुशः पार्थानात्मसुतौ तदा॥ 1-134-94(6027)
हस्ते युधिष्ठिरं गृह्य माद्री वाक्यमभाषत।
कुन्ती माता अहं धात्री युष्माकं तु पिता मृतः॥ 1-134-95(6028)
युधिष्ठिरः पिता ज्येष्ठश्चतुर्णां धर्मतः सदा।
वृद्धाद्युपासनासक्ताः सत्यधर्मपरायणाः॥ 1-134-96(6029)
तादृशा न विनश्यन्ति नैव यान्ति पराभवम्।
तस्मात्सर्वे कुरुध्वं वै गुरुवृत्तिमतन्द्रिताः॥ 1-134-97(6030)
वैशम्पायन उवाच। 1-134-98x(805)
ऋषीणां च पृथायाश्च नमस्कृत्य पुनःपुनः।
आयासकृपणा माद्री प्रत्युवाच पृथां तदा॥ 1-134-98(6031)
माद्र्युवाच। 1-134-99x(806)
ऋषीणां संनिधावेषां यथा वागभ्युदीरिता।
दिदृक्षमाणायाः स्वर्गं न ममैषा वृथा भवेत्॥ 1-134-99(6032)
धन्या त्वमसि वार्ष्णेयि नास्ति स्त्री सदृशी त्वया।
वीर्यं तेजश्च योगं च माहात्म्यं च यशस्विनाम्॥ 1-134-100(6033)
कुन्ति द्रक्ष्यसि पुत्राणां पञ्चानाममितौजसाम्।
आर्या चाप्यभिवाद्या च मम पूज्या च सर्वतः॥ 1-134-101(6034)
ज्येष्ठा वरिष्ठा त्वं देवि भूषिता स्वगुणैः शुभैः।
अभ्यनुज्ञातुमिच्छामि त्वया यावनन्दिनि॥ 1-134-102(6035)
धर्मं स्वर्गं च कीर्तिं च त्वत्कृतेऽहमवाप्नुयाम्।
यथा तथा विधत्स्वेह मा च कार्षीर्विचारणां॥ 1-134-103(6036)
वैशम्पायन उवाच। 1-134-104x(807)
बाष्पसंदिग्धया वाचा कुन्त्युवाच यशस्विनी।
अनुज्ञाताऽसि कल्याणि त्रिदिवे सङ्गमोऽस्तु ते॥ 1-134-104(6037)
भर्त्रा सह विशालिक्षि क्षिप्रमद्यैव भामिनि।
संगतास्वर्गलोके त्वं रमेथाः शाश्वतीः समाः॥ 1-134-105(6038)
वैशम्पायन उवाच। 1-134-106x(808)
ततः पुरोहितः स्नात्वा प्रेतकर्मणि पारगः।
हिरण्यशकलानाज्यं तिलं दधि च तण्डुलान्॥ 1-134-106(6039)
उदकुम्भांश्च परशुं समानीय तपस्विभिः।
अश्वमेधाग्निमाहृत्य यथान्यायं समन्ततः॥ 1-134-107(6040)
काश्यपः कारयामास पाण्डोः प्रेतस्य तां क्रियाम्।
पुरोहितोक्तविधिना पाण्डोः पुत्रो युधिष्ठिरः॥ 1-134-108(6041)
तेनाग्निनाऽदहत्पाण्डुं कृत्वा चापि क्रियास्तदा।
रुदञ्छोकाभिसंतप्तः पपात भुवि पाण्डवः॥ 1-134-109(6042)
ऋषीन्पुत्रान्पृथां चैव विसृज्य च नृपात्मज।'
नमस्कृत्य चिताग्निस्थं धर्मपत्नी नरर्षभम्॥ 1-134-110(6043)
मद्रराजसुता तूर्णमन्वारोहद्यशस्विनी॥ 1-134-111(6044)
`अहताम्बरसंवीतो भ्रातृभिः सहितोऽनघः।
उदकं कृतवांस्तत्र पुरोहितमते स्थितः॥ 1-134-112(6045)
अर्हतस्तस्य कृत्यानि शतशृङ्गनिवासिनः।
तापसा विधिवच्चक्रुश्चारणा ऋषिभिः सह॥ ॥ 1-134-113(6046)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुस्त्रिंशदधिकशततमोऽध्यायः॥ 134 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-134-15 मधुभाधवे चैत्रवैशाखयोः संधौ तदात्मके वसन्ते॥ 1-134-19 वयः स्थां युवतीम्। तनुवाससं सूक्ष्मवस्त्रां किंचिद्विवृताङ्गामित्यर्थः॥ 1-134-23 कामपरीतात्मा कामेन व्याप्तचित्तः॥ 1-134-25 बुद्दिर्भयनिश्चयः। चेतसा विचारेण॥ 1-134-26 कालधर्मणा मृत्युना॥ 1-134-28 तथागतः मृतः॥ 1-134-32 त्वामत्यतिक्रान्तो बलादाक्रान्तवान्। शोकाकुलत्वादतिशब्दस्याभ्यासः॥ 1-134-34 प्रहर्षः कामः॥ 1-134-36 आत्मा चित्तम्। दिष्टं शापजं दुरदृष्टम्॥ 1-134-69 प्रेतवशं प्रेतराजवशम्। अन्विष्याम्यनुगमिष्यामि॥ चतुस्त्रिंशदधिकशततमोऽध्यायः॥ 134 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|